|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.15. अध्यायः 015
Mahabharata - Vana Parva - Chapter Topics
कृष्णेन युधिष्ठिरंप्रति साल्वसमागमसमये उग्रसेनकृतद्वारकारक्षणप्रकारकथनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
युधिष्ठिर उवाच। 3-15-0x(1828)(16282)
वासुदेव महाबाहो विस्तरेण महामते।
सौभस्य वधमाचक्ष्व न हि तृष्यामि कथ्यतः ॥ 3-15-1(16283)
वासुदेव उवाच। 3-15-2x(1829)
हतं श्रुत्वा महाबाहौ मया श्रौतश्रवं नृप।
उपायाद्भरतश्रेष्ठ साल्वो द्वारवतीं पुरीम् ॥ 3-15-2(16284)
अरुणत्तां सुदुष्टात्मा सर्वतः पाण्डुनन्दन।
साल्वो वैहायसं चापि तत्पुरं व्यूह्य धिष्ठितः ॥ 3-15-3(16285)
तत्रस्थोऽथ महीपालो योधयामास तां पुरीम्।
अभिसारेण सर्वेण तत्र युद्धमवर्तत ॥ 3-15-4(16286)
पुरी समन्ताद्विहिता सपताका सतोरणा।
सचक्रा सहुडा चैव सयन्त्रखनका तथा ॥ 3-15-5(16287)
सोपशल्यप्रतोलीका साट्टाट्टालकगोपुरा।
सचक्रग्रहिणी चैव सोल्कालातावपोथिका ॥ 3-15-6(16288)
सोष्टिका भरतश्रेष्ठ सभेरीपणवानका।
सतोमराङ्कुशा राजन्सशतघ्नीकलाङ्गला ॥ 3-15-7(16289)
सभुशुण्ड्यश्मगुडका सायुधा सपरश्वधा।
लोहचर्मवती चापि साग्निः सगुडशृङ्गिका।
शास्त्रदृष्टेन विधिना सुयुक्ता भरतर्षभ ॥ 3-15-8(16290)
रथैरनेकैर्विविधैर्गदसाम्बोद्धवादिभिः।
पुरुषैः कुरुशार्दूल समर्थैः प्रतिवारणे ॥ 3-15-9(16291)
अतिख्यातकुलैर्वीरैर्दृष्टवीर्यैश्च संयुगे।
मध्यमेन च गुल्मेन रक्षिभिः सा सुरक्षिता।
उत्क्षिप्तगुल्मैश्च तथा हयैश्च सपताकिभिः ॥ 3-15-10(16292)
आघोषितं च नगरे न पातव्या सुरेति वै।
प्रमादं परिरक्षद्भिरुग्रसेनोद्धवादिभिः ॥ 3-15-11(16293)
प्रमत्तेष्वभिघातं हि कुर्यात्साल्वो नराधिपः।
इति कृत्वाऽप्रमत्तास्ते सर्वेवृष्ण्यन्धकाः स्थिताः ॥ 3-15-12(16294)
आनर्ताश्च तथा सर्वे नटनर्तकगायकाः।
बहिर्निर्वासिताः सर्वे रक्षद्भिर्वित्तसंचयम् ॥ 3-15-13(16295)
संक्रमा भेदिताः सर्वे नावश्च प्रतिषेधिताः।
परिखाश्चापि कौरव्य कीलैः सुनिचिताः कृताः ॥ 3-15-14(16296)
उदपानाः कुरुश्रेष्ठ तथैवाप्यम्बरीषकाः।
समन्तात्क्रोशमात्रं च कारिता विषमा च भूः।
`संक्रमा भेदिताः सर्वे प्राकाराश्च नवीकृताः ॥' 3-15-15(16297)
प्रकृत्या विषमं दुर्गं प्रकृत्या च सुरक्षितम्।
प्रकृत्या चायुधोपेतं विशेषेण तदाऽनघ ॥ 3-15-16(16298)
सुरक्षितं सुगुप्तं च सर्वायुधसमन्वितम्।
तत्पुरं भरतश्रेष्ठ यथेन्द्रभवनं तथा ॥ 3-15-17(16299)
न चामुद्रोऽभिनिर्याति न चामुद्रः प्रवेश्यते।
वृष्ण्यन्धकपुरे राजंस्तदा सौभसमागमे ॥ 3-15-18(16300)
अनुरध्यासु सर्वासु चत्वरेषु च कौरव।
बलं बभूव राजेन्द्र प्रभूतगजवाजिमत् ॥ 3-15-19(16301)
दत्तवेतनभक्तं च दत्तायुधपरिच्छदम्।
कृतोपधानं च तदा बलमासीद्विशांपते ॥ 3-15-20(16302)
न कृप्यवेतनी कश्चिन्न चातिक्रान्तवेतनी।
नानुग्रहभृतः कश्चिन्न चादृष्टपराक्रमः ॥ 3-15-21(16303)
एवं सुविहिता राजन्द्वारका भूरिदक्षिणैः।
आहुकेन सुगुप्ता च राज्ञा राजीवलोचन ॥ 3-15-22(16304)
इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि पञ्चदशोऽध्यायः ॥ 15 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-15-1 कथ्यतः कथयतः ॥ 3-15-2 श्रुतश्रवा शिशुपालमाता ॥ 3-15-5 पताका ध्वजाञ्चलः। तोरणानि बहुर्द्वाराणि। चक्राणि योधगणाः। हुडास्तदाश्रयस्थानानि। यन्त्राणि आग्नेयौषधबलेन दृषत्पिण्डोत्क्षेपणानि। खनकाः सुरंगद्वारा गुप्तमार्गकर्तारः ॥ 3-15-6 उपशल्या लोहमुखाः कीलास्तद्युक्ताः। प्रतोल्यो रथ्यामार्गा यस्यां सा। अट्टालकाः उपरिगृहाः। गोपुराणि पुरद्वाराणि। साट्टानि अट्टेन अनेन सहितानि अट्टालकादीनि यस्यां सा चक्र ग्रहणी सैन्यनिग्राहिका। सोल्कालातावपोथिका सोल्कमलातं ज्वालासहितमुल्मुकं यस्यां सोल्कालाता। अवबद्धाः पोथिकाः यन्त्रबद्धाः काष्ठपाषाणादयो रिपूणामुपरि पातनाय यस्यामिति प्राञ्चः। सकचग्रहिणी चैव इति क. ट. पाठः ॥ 3-15-7 उष्ट्रिका मृच्चर्ममयानि भाण्डानि। सर्ष्टिका साङ्कुशेति क. ट. पाठः। ऋष्टय आयुधविशेषाः ॥ 3-15-8 अश्मगुडकाः वर्तुलीकृताः पाणाणाः। लोहमयानि चर्माणि कमठपृष्ठाकाराणि प्रहारवारकाणि। साग्निः आग्नेयौषधसहिता। गुडा गोलकाः। शृङ्गिकास्तदुत्क्षेपकयन्त्राणि ॥ 3-15-9 समन्तात्परिपालिते इति क. पाठः ॥ 3-15-13 निवासिताः क्षिप्रं इति झ. पाठः ॥ 3-15-14 संक्रमा नदीसेतवः। कीलैः शूलैः। सुनिचिता व्याप्ताः ॥ 3-15-15 उदपानाः कूपाः। अम्बरीषो गुप्ताग्निः। विषमा लोहकण्टकाद्याकीर्णा ॥ 3-15-19 अनुरथ्यासु प्रतिरध्यम् ॥ 3-15-20 वेतनं धनम्। भक्तं नित्यभोजनम्। कृतोपधानं कृतविशेषम् ॥ 3-15-21 कुप्यं स्वर्णरूप्येतरद्धनं ताम्रादि। ग्रहो रणोद्यमस्तमनुलक्षीकृत्य भृतोऽनुग्रहभृतस्तत्कालस्वीकृतो न कश्चित् किंतु चिरसंभृता एव। नादत्तवेतनः कश्चित् इति क. ठ. पाठः ॥ 3-15-22 आहुकेन उग्रसेनेन। भूरिदक्षिणेति झ. पाठः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|